|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.130. अध्यायः 130
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण मार्कण्डेयाश्रमगमनम् ॥ 1 ॥ लोमशेन युधिष्ठिरंप्रति संग्रहेण मार्कण्डेयचरित्रकथनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
`वैशम्पायन उवाच। 3-130-0x(2128)(20888)
सोमकस्याश्रमे पुण्ये धर्मराजो युधिष्ठिरः।
षड्रात्रमुष्य नियतो भ्रात्रादिभिररिंदमः।
तस्मान्निर्गम्य सहसा दिशं प्रायात्तथोत्तराम् ॥ 3-130-1(20889)
बहुदूरं ततो गत्वा वनं तत्र मनोहरम्।
बहुपष्पफलाकीर्णं महानद्युपशोभितम् ॥ 3-130-2(20890)
दृष्ट्वा पप्रच्छ राजाऽसौ लोमशं मुनिसत्तमम्।
किमिदं दृश्यते रम्यं वनं बहुमृगद्विजम् ॥ 3-130-3(20891)
बहुपुष्पफलोपेतं मुनिसङ्घैर्निषेवितम्।
स्रवन्त्या च समायुक्तं महत्या पुण्यतोयया ॥ 3-130-4(20892)
ऋषीणामाश्रमाः पुण्या दृश्यन्ते विविधा मुने।
कस्यायमाश्रमः पुण्यः कस्येमे मुनयोऽमलाः।
एतदिच्छाम्यहं श्रोतुं वद त्वं वदतांवर ॥ 3-130-5(20893)
लोमश उवाच। 3-130-6x(2129)
शृणु राजेनद्र भद्रं ते वनस्यास्य पुरातनम्।
वृत्तान्तं निखिलेनाद्य प्रोच्यमानं मयाऽनघ ॥ 3-130-6(20894)
मृकण्डुपुत्रो मेधावी मार्कण्डेयो महामुनिः।
बाल एव महाबुद्धिः सर्वविद्याविशारदः ॥ 3-130-7(20895)
मातापित्रोः प्रियं कुर्वंस्तपोर्थं वनमाविशत्।
अत्राश्रमपदं कृत्वा तपस्तेपे सुदारुणम् ॥ 3-130-8(20896)
ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः।
जलस्थः शिशिरे योगी बहुकालमवर्तत ॥ 3-130-9(20897)
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः।
जितेन्द्रियो जितप्राणश्चिन्तयन्दृढमव्ययम्।
अनाहारो जितक्रोधश्चिरमेवमवर्तत ॥ 3-130-10(20898)
एतस्मिन्नन्तरे राजन्ननावृष्टिः सुदारुणा।
संभूता सर्वसंहर्त्री तया दग्धं चराचरम् ॥ 3-130-11(20899)
अनावृष्ट्यां प्रवृत्तायां सर्वे च निधनं गताः।
केचिदन्ये महात्मानो मुनयो द्विजपुङ्गवाः ॥ 3-130-12(20900)
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा सर्वाश्च योषितः।
पशुपक्षिमृगाः सर्वे क्षुत्पिपासासमाकुलाः।
कृशाः शुष्कोष्ठकण्ठाश्च श्रान्ता भ्रान्ता विचेतसः ॥ 3-130-13(20901)
केनचित्पुण्यशेषेण मार्कण्डेयस्य धीमतः।
आश्रमं शनकैः प्राप्ता मूर्च्छिताः सहसाऽपतन् ॥ 3-130-14(20902)
समाधिविरतो योगी मार्कण्डेयो महातपाः।
तद्वनं निबिडं दृष्ट्वा जनैः क्षुत्तृट्समाकलैः ॥ 3-130-15(20903)
दयार्द्रहृदयो योगी शिवं ध्यात्वा हृदम्बुजे।
तेषां संरक्षणार्थाय वेदगन्धिस्वरेण सः।
आजुहाव तदा गङ्गां तपोयोगेन भारत ॥ 3-130-16(20904)
गङ्गा समागता शीघ्रं तेनाहूताऽतिपावना।
नाम्ना वेदनदीत्येव प्रख्याता लोकपावना ॥ 3-130-17(20905)
पर्जन्यश्च समाहूतः सुखं वर्षति भारत।
सस्यानि च समृद्धानि फलमूलान्यनेकशः।
संभूतान्यत्रराजेनद्र सर्वे ते रक्षिता जनाः ॥ 3-130-18(20906)
मार्कण्डेयं प्रशंसन्तो जनाः सर्वे द्विजात्तयः।
चिरं सुखमवर्तन्त तेन संरक्षिता नृप ॥ 3-130-19(20907)
एवं विधाय रक्षां स सर्वेषां पुण्यकर्मणाम्।
पुनश्चचार च तपः परमेश्वरतुष्टये ॥ 3-130-20(20908)
एवं बहुतिथे काले प्रादुरासीन्महेश्वरः ॥ 3-130-21(20909)
दृष्ट्वा च सर्वदेवेशं चन्द्रमौलिमुमापतिम्।
ब्रह्मविष्ण्वादिभिर्देवैः सिद्धविद्याधरोरगैः ॥ 3-130-22(20910)
गन्धर्वयक्षप्रवरैः सकिन्नरपतत्रिभिः।
स्तूयमानं महादेवमव्ययं निष्कलं शिवम्।
प्रणनाम मुनिर्भक्त्या साष्टाङ्गं च पुनः पुनः ॥ 3-130-23(20911)
प्रणम्योत्थाय सहसा बद्धाञ्जलिपुटो मुनिः।
तुष्टाव विविधैः स्तोत्रैर्महादेवं जगत्पतिम् ॥ 3-130-24(20912)
तमुवाच महादेवो मार्कण्डेयं महामुनिम्।
वरं वरय भद्रं ते वरदोस्मि मुने तव ॥ 3-130-25(20913)
एवं संबोधितस्तेन शिवेन परमात्मना।
सगद्गदमिदं वाक्यमुवाच परमेश्वरम् ॥ 3-130-26(20914)
नान्यं वरं वृणे शंभो ---त्वत्पादपङ्कजे।
भक्तिंह्यनन्यसुलभां स्व व्यभिचारिणीम् ॥ 3-130-27(20915)
एवमुक्तोऽथ मुनिना भरतगीश्वरेश्वरः।
पुनरेवाब्रवीद्वाक्यं मार्कण्डेय महामुनिम् ॥ 3-130-28(20916)
सम्यगाराधितः पित्रा तव पुत्रार्थमादरात् ॥ 3-130-29(20917)
शतायुर्निर्गुणः पुत्रः शुभः षोडशवार्षिकः।
उभयोरन्यमिच्छ त्वमित्युक्तः सोऽब्रवीच्च माम् ॥ 3-130-30(20918)
निर्गुणो मास्तु देवेश शतायुः षोडशाब्दकः।
सुगुणोऽस्तु सुतो मेऽद्य इति पित्रावृत पुरा ॥ 3-130-31(20919)
त्वया तप्तेन तपसा तोषितोऽहं भृशं मुने।
दीर्घमायुर्मया दत्तं मृत्युश्च प्रतिषेधितः ॥ 3-130-32(20920)
इत्युक्त्वा भगवानीशस्तत्रैवान्तरधीयत।
तस्यायमाश्रमः पुण्यस्तस्येमे मुनयोऽमलाः ॥ 3-130-33(20921)
अत्रैकरात्रमुषिताः सर्वे मृत्युं तरन्ति वै।
अत्रैव भरतश्रेष्ठ प्रयतो वस भूमिप' ॥ 3-130-34(20922)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रिंशदधिकशततमोऽध्यायः ॥ 130 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|